Description
The Shakambari Kavacham is a reflection song devoted to Maa Shakambari, a divinity and, furthermore, a type of goddess Durga. It is believed to intrigue her blessings and security.
The verses regularly portray the incomparable divinity and the types of Shakambari that feature her job. Kavacham is a defensive chant that plays the blessings of Shakambari goddess. The advantages of recounting Kavacham for spiritual well-being and security.to know more about this
Shakambari kavacham lyrics
शक्र उवाच -
शाकम्à¤à¤°्यास्तु कवचं सर्वरक्षाकरं नृणाम् ।
यन्न कस्यचिदाख्यातं तन्मे कथय षण्मुख ॥ १॥
स्कन्द उवाच -
शक्र शाकम्à¤à¤°ीदेव्याः कवचं सिद्धिदायकम् ।
कथयामि महाà¤ाग श्रुणु सर्वशुà¤ावहम् ॥ २॥
अस्य श्री शाकम्à¤à¤°ी कवचस्य स्कन्द ऋषिः ।
शाकम्à¤à¤°ी देवता । अनुष्टुप्छन्दः ।
चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
ध्यानम् ।
शूलं खड्गं च डमरुं दधानामà¤à¤¯à¤ª्रदम् ।
सिंहासनस्थां ध्यायामि देवी शाकम्à¤à¤°ीमहम् ॥ ३॥
अथ कवचम् ।
शाकम्à¤à¤°ी शिरः पातु नेत्रे मे रक्तदन्तिका ।
कर्णो रमे नन्दजः पातु नासिकां पातु पार्वती ॥ ४॥
ओष्ठौ पातु महाकाली महालक्ष्मीश्च मे मुखम् ।
महासरस्वती जिह्वां चामुण्डाऽवतु मे रदाम् ॥ ५॥
कालकण्ठसती कण्ठं à¤à¤¦्रकाली करद्वयम् ।
हृदयं पातु कौमारी कुक्षिं मे पातु वैष्णवी ॥ ६॥
नाà¤िं मेऽवतु वाराही ब्राह्मी पार्श्वे ममावतु ।
पृष्ठं मे नारसिंही च योगीशा पातु मे कटिम् ॥ à¥॥
ऊरु मे पातु वामोरुर्जानुनी जगदम्बिका ।
जङ्घे मे चण्डिकां पातु पादौ मे पातु शाम्à¤à¤µी ॥ ८॥
शिरःप्रà¤ृति पादान्तं पातु मां सर्वमङ्गला ।
रात्रौ पातु दिवा पातु त्रिसन्ध्यं पातु मां शिवा ॥ ९॥
गच्छन्तं पातु तिष्ठन्तं शयानं पातु शूलिनी ।
राजद्वारे च कान्तारे खड्गिनी पातु मां पथि ॥ १०॥
सङ्ग्रामे सङ्कटे वादे नद्युत्तारे महावने ।
à¤्रामणेनात्मशूलस्य पातु मां परमेश्वरी ॥ ११॥
गृहं पातु कुटुम्बं मे पशुक्षेत्रधनादिकम् ।
योगक्षैमं च सततं पातु मे बनशङ्करी ॥ १२॥
इतीदं कवचं पुण्यं शाकम्à¤à¤°्याः प्रकीर्तितम् ।
यस्त्रिसन्ध्यं पठेच्छक्र सर्वापद्à¤िः स मुच्यते ॥ १३॥
तुष्टिं पुष्टिं तथारोग्यं सन्ततिं सम्पदं च शम् ।
शत्रुक्षयं समाप्नोति कवचस्यास्य पाठतः ॥ १४॥
शाकिनीडाकिनीà¤ूत बालग्रहमहाग्रहाः ।
नश्यन्ति दर्शनात्त्रस्ताः कवचं पठतस्त्विदम् ॥ १५॥
सर्वत्र जयमाप्नोति धनलाà¤ं च पुष्कलम् ।
विद्यां वाक्पटुतां चापि शाकम्à¤à¤°्याः प्रसादतः ॥ १६॥
आवर्तनसहस्रेण कवचस्यास्य वासव ।
यद्यत्कामयतेऽà¤ीष्टं तत्सर्वं प्राप्नुयाद् ध्रुवम् ॥ १à¥॥
॥ इति श्री स्कन्दपुराणे स्कन्दप्रोक्तं शाकम्à¤à¤°ी कवचं सम्पूर्णम् ॥
Tags:
Shakambari kavacham